श्री सूक्तं

ओं || हिर’ण्यवर्‍णां हरि’णीं सुवर्‍ण’रजतस्र’जां | चंद्रां हिरण्म’यीं लक्ष्मीं जात’वेदो म आव’ह ||

 

तां म आव’ह जात’वेदो लक्ष्मीमन’पगामिनीं’ |

यस्यां हिर’ण्यं विंदेयं गामश्वं पुरु’षानहं ||

 

अश्वपूर्‍वां र’थमध्यां हस्तिना’द-प्रबोधि’नीं |

श्रियं’ देवीमुप’ह्वये श्रीर्‍मा देवीर्‍जु’षतां ||

 

कां सो’स्मितां हिर’ण्यप्राकारा’मार्‍द्रां ज्वलं’तीं तृप्तां तर्‍पयं’तीं |

पद्मे स्थितां पद्मव’र्‍णां तामिहोप’ह्वये श्रियं ||

 

चंद्रां प्र’भासां यशसा ज्वलं’तीं श्रियं’ लोके देवजु’ष्टामुदारां |

तां पद्मिनी’मीं शर’णमहं प्रप’द्येलक्ष्मीर्‍मे’ नश्यतां त्वां वृ’णे ||

 

आदित्यव’र्‍णे तपसोधि’जातो वनस्पतिस्तव’ वृक्षोथ बिल्वः |

तस्य फला’नि तपसानु’दंतु मायांत’रायाश्च’ बाह्या अ’लक्ष्मीः ||

 

उपैतु मां देवसख कीर्‍तिश्च मणि’ना सह |

प्रादुर्‍भूतोस्मि’ राष्ट्रेस्मिन्‍ कीर्‍तिमृ’द्धिं ददादु’ मे ||

 

क्षुत्पि’पासाम’लां ज्येष्ठाम’लक्षीं ना’शयांयहं |

अभू’तिमस’मृद्धिं च सर्‍वां निर्‍णु’द मे गृहात् ||

 

गंधद्वारां दु’राधर्‍षां नित्यपु’ष्टां करीषिणीं’ |

ईश्वरीग्ं’ सर्‍व्व’भूतानां तामिहोप’ह्वये श्रियं ||

 

मन’सः काममाकूतिं वाच सत्यम’शीमहि |

पशूनां रूपमन्‍य’स्य मयि श्री श्र’यतां यशः’ ||

 

कर्‍दमे’न प्र’जाभूता मयि संभ’व कर्‍दम |

श्रियं’ वासय’ मे कुले मातरं’ पद्ममालि’नीं ||

 

आपः’ सृजंतु’ स्निग्दानि चिक्लीत व’स मे गृहे |

नि च’ देवीं मातरं श्रियं’ वासय’ मे कुले ||

 

आर्‍द्रां पुष्करि’णीं पुष्टिं सुवर्‍णां हे’ममालिनीं |

सूर्‍यां हिरण्म’यीं लक्ष्मीं जात’वेदो म आव’ह ||

 

आर्‍द्रां यः करि’णीं यष्टिं पिंगलां प’द्ममालिनीं |

चंद्रां हिरण्म’यीं लक्ष्मीं जात’वेदो म आव’ह ||

 

तां म आव’ह जात’वेदो लक्षीमन’पगामिनीं’ |

यस्यां हिर’ण्यं प्रभू’तं गावो’ दास्योश्वा’न्‍, विंदेयं पुरु’षानहं ||

 

ओं महादेव्यै च’ विद्महे’ विष्णुपत्नी च’ धीमहि | तन्नो’ लक्ष्मी प्रचोदया’त् ||

 

श्री-व‍र्‍च’स्व-मायु’ष्य-मारो’ग्यमावी’धात् पव’मानं महीयते’ |

धनं धान्यं पशुं बहुपु’त्रलाभं शतसं’वत्सरं दीर्‍घमायुः ||

 

ओं शान्ति शान्ति शान्तिः’ ||